प्रथमावृत्तिः
सूत्रम्॥
दिक्सङ्ख्ये संज्ञायाम्॥ २।१।४९
पदच्छेदः॥
दिक्सङ्ख्ये १।२ ५० संज्ञायाम् ७।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह ० ४ सुपा ३।१ ४ समासः १।१ ३ सुप् १।१ २
काशिका-वृत्तिः
दिक्सङ्ख्ये संज्ञायाम् २।१।५०
समानाधिकरणेन इत्यापादसमाप्तेरनुवर्तते। दिग्वाचिनः शब्दाः सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति संज्ञयां वषये। पूर्वेषुकामशमी। अपरेषुकामशमी। पञ्चाम्राः। सप्तर्षयः। संज्ञायाम् इति किम्? उत्तरा वृक्षाः। पञ्च ब्राह्माणाः।
लघु-सिद्धान्त-कौमुदी
दिक्संख्ये संज्ञायाम् ९३८, २।१।४९
संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। तेनेह न - उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥
न्यासः
दिक्संख्यं संज्ञायाम्। , २।१।४९
"पूर्वेषुकामशमीत्यादिः" ग्रामाणां संज्ञा। पूर्वा चासाविषुकामशमी चेति पूर्वेषुकामशमी। मन्दश्रियां पूर्वोत्तरपदविभागमात्रप्रदर्शनार्थं वाक्यं कृतम्। न ह्रत्र वाक्येन भवितव्यम्। न हि वाक्येन संज्ञा गम्यते॥
बाल-मनोरमा
दिक्संङ्ख्ये संज्ञायाम् ७१७, २।१।४९
दिक्संख्ये। अधिकार इति। "पूर्वकालैके"ति सूत्रस्थं "समानाधिकरणेने"त्येतदा पादसमाप्तेरनुवर्तत इत्यर्थः। ततश्च दिक्सङ्ख्ये समानाधिकरणेन सुबन्तेन समस्येते, स तत्पुरुष इत्यर्थः। ननु "विशेषणं विशेष्येणे"ति यदि दिक्सङ्ख्ययोस्समासः स्यात्तर्हि संज्ञायामेवे"ति नियमशरीराभ्युपगमात्। "पूर्वसूत्रं" "पूर्वमासः" "पूर्वसमुद्रः" इत्यादौ तु संज्ञात्वाऽभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव। ननु "त्रिलोकनाथः पितृसद्मगोचरः" इति कथं कालिदासप्रयोगः, त्रिलोकशब्दस्य असंज्ञात्वात्। त्रयाणां लोकानां समाहार इति विग्रहे "तद्धितार्थ" इति द्विगुसमासे तु "द्विगोः" इति ङीप्प्रसङ्गः। "अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः" इति स्त्रीलिङ्गत्वात्। पात्रादित्वान्न स्त्रीत्वमित्यभ्युपगमे "यदि त्रिलोकी गणनापरा स्या"दित्यादिप्रयोगा न युज्येरन्निति चेत्सत्यम्। लोकशब्दोऽत्र लोकसमुदायपरः। त्त्यवयवो लोकस्त्रिलोक इति मध्यमपदलोपी समासः। एतच्च "द्विगोर्लुगनपत्ये" इति सूत्रे भाष्ये स्पष्टम्। "षोडशपदार्थाना"मित्यत्र तु षोडशसंख्याकाः पदार्था इति मध्यमपदलोपी समास इत्यलम्। पूर्वेषुकामशमीति। पूर्वशब्दस्य इषुकामशमीशब्देन समासः। देशविशेषस्य संज्ञेयम्। सप्तर्षय इति। मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां संज्ञेयम्। नेहेति। असंज्ञात्वादिति भावः।
तत्त्व-बोधिनी
दिक्सङ्ख्ये संज्ञायाम् ६३५, २।१।४९
दिक्सङ्ख्ये संज्ञायाम्। नियमार्थमिति। "तत्पुरुषे संज्ञायामेव दिक्सङ्ख्ये समस्येते"इति नियमशरीरम्। तेन पञ्चगुरित्यादि सिद्ध्यति। कथं तर्हि "त्रिलोकनाथः पितृसद्मगोचरः"इति कालिदासः। त्रिलोकशब्दस्याऽसंज्ञात्वात्। न च समाहारे द्विगु), "द्विगोः"इति ङीप्प्रसङ्गात्। न च पात्रादित्वं कल्प्यं, "यदि त्रिलोकी गणना परा स्या"दित्यादिप्रयोगाणामसङ्गत्यापत्तेः। न च "उत्तरपदे"इति समासः, त्रिपदतत्परुषस्येह दुर्लभत्वात्। अत्राहुः--लोकशब्दोऽत्र लोकसमुदायपरः। त्र्यवयवो लोकस्त्रिलोकः। शाकपार्थिवादित्वादुत्तरपदलोप"इति। पञ्च ब्राआहृणा इति। यद्यप्यत्र कृतेऽपि समासे रूपे विशेषो नास्ति, तथापि विभक्त्यन्वये पञ्चभिब्र्राआहृणौरित्यादौ विशेषो बोध्यः। तद्धितार्थो। असंज्ञार्थं वचनम्। एकापि सप्तमी विषयेभेदाद्भिद्यत इत्याशयेनाह।